Ganga Mata Stotram illustration depicting Goddess Ganga with lotus and pot by a river in a scenic landscape

गंगा माता स्तोत्रम् | Ganga Mata Stotram

॥ गंगा माता स्तोत्रम् ॥

देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे।
शङ्करमौलिविहारिणि विमले मममतिरास्तां तव पदकमले॥1॥

भागीरथिसुखदायिनि मातस्तवजलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम्॥2॥

हरिपदपाद्यतरङ्गिण गङ्गेहिमविधुमुक्ताधवलतरङ्गे।
दूरीकुरु मम दुष्कृतिभारंकुरु कृपया भवसागरपारम्॥3॥

तव जलममलं येन निपीतंपरमपदं खलु तेन गृहीतम्।
मातर्गंगे त्वयि यो भक्तःकिल तं द्रष्टुं न यमः शक्तः॥4॥

पतितोद्धारिणि जाह्नविगङ्गे खण्डितगिरिवरमण्डितभङ्गे।
भीष्मजननि हे मुनिवरकन्येपतितनिवारिणि त्रिभुवनधन्ये॥5॥

कल्पलतामिव फलदां लोकेप्रणमति यस्त्वां न पतति शोके।
पारावारविहारिणि गङ्गेविमुखयुवतिकृततरलापाङ्गे॥6॥

तव चेन्मातः स्रोतः स्नातःपुनरपि जठरे सोपि न जातः।
नरकनिवारिणि जाह्नवि गङ्गेकलुषविनाशिनि महिमोत्तुड़े॥7॥

पुनरसदंगे पुण्यतरंगे जयजय जाह्नवि करुणापांगे।
इंद्रमुकुटमणिराजितचरणेसुखदे शुभदे भृत्यशरण्ये॥8॥

रोगं शोकं तापं पापं हरहर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारेत्वमसि गतिर्मम खलु संसारे॥9॥

अलकानन्दे परमानन्दे कुरुकरुणामयि कातरवन्द्ये।
तव तटनिकटे यस्य निवासःखलु वैकुण्ठे तस्य निवासः॥10॥

वरमिह नीरे कमठो मीनःकिं वा तीरे शरटः क्षीणः।
अथवा श्वपचो मलिनो दीनस्तवन हि दूरे नृपतिकुलीनः॥11॥

भो भुवनेश्वरि पुण्ये धन्येदेवि द्रवमयि मुनिवरकन्ये।
गङ्गास्तवमिमममलं नित्यंपठति नरो यः स जयति सत्यम्॥12॥

येषां हृदये गङ्गाभक्तिस्तेषांभवति सदा सुखमुक्तिः।
मधुराकान्तापज्झटिकाभिःपरमानन्दकलितललिताभिः॥13॥

गंगास्तोत्रमिदं भवसारंवाञ्छितफलदं विमलं सारम्।
शङ्करसेवकशङ्कररचितंपठति सुखीः तव इति च समाप्तः॥14॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥
Back to blog