॥ श्री विष्णुनामाष्टकम् ॥
॥ श्री गणेशाय नमः ॥
अच्युतं केशवं विष्णुंहरिं सत्यं जनार्दनम्।
हंसं नारायणंचैवमेतन्नामाष्टकं पठेत्॥1॥
त्रिसन्ध्यं यः पठेन्नित्यंदारिद्र्यं तस्य नश्यति।
शत्रुसैन्यं क्षयं यातिदुःस्वप्नः सुखदो भवेत्॥2॥
गङ्गायां मरणं चैवदृढा भक्तिस्तु केशवे।
ब्रह्मविद्याप्रबोधश्चतस्मान्नित्यं पठेन्नरः॥3॥
॥ इति श्रीवामनपुराणे विष्णोर्नामाष्टकस्तोत्रं सम्पूर्णम् ॥