॥ अथ तन्त्रोक्तं रात्रिसूक्तम् ॥
ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।
निद्रां भगवतीं विष्णोर्तुलां तेजसः प्रभुः॥1॥
ब्रह्ममोच
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥2॥
अर्धमात्रास्थिता नित्या यानुच्चराय विशेषतः।
त्वमेव संध्या गायत्री त्वं देवी जननी परा॥3॥
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।
त्वयैत्पल्यते देवी त्वमत्स्यन्ते च सर्वदा॥4॥
विश्रष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये॥5॥
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवति महादेवी महासूरि॥6॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।
कालरात्रिरामहरिरात्रिर्मोहरात्रिश्च दारुणा॥7॥
त्वं श्रीस्त्वमीश्वरी त्वं हृस्त्वं बुद्धिर्बोधलक्षणा।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षण्तिरेव च॥8॥
खड्गिनी शूलिनी घोरा गादिनी चक्रिणी तथा।
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा॥9॥
सौम्या सौम्यतरशेषसौमयेभ्यस्त्वतिसुन्दरी।
परापराणां परमा त्वमेव भगवानि॥10॥
यच्च किञ्चित् क्वचिदवस्तु सदसद्वखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तुयसे तदा॥11॥
यया त्वया जगत्श्रष्टा जगत्पत्यति यो जगत्।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः॥12॥
विष्णुः शरीरग्रहमहमीशान एव च।
कारितास्ते यतोऽतस्त्वं कः स्तोतुं शक्तिमन् भवेत्॥13॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवी संस्तुता।
मोहयैतौ दीर्घहर्षासुरौ मधुकैटभौ॥14॥
प्रबोधं च जगत्स्वामी नियतामच्युतो लघु।
बोधश्च क्रियतमस्य हन्तुमेतौ महासुरौ॥15॥
॥ इति रात्रिसूक्तम् ॥