॥ श्रीसिद्धिलक्ष्मीस्तोत्रम् ॥
॥ विनियोगः ॥
श्री गणेशाय नमः।
ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,
अनुष्टुप छंदः, सिद्धिलक्ष्मीर्देवता, मम समग्र
दुःखक्लेशपीडादारिद्र्यविनाशार्थम्
सर्वशास्त्रप्रसन्नकरणार्थं
महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च
सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः।
॥ करन्यासः ॥
ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः।
ॐ ह्रीं विष्णुहृदयै महानिभ्यां नमः।
ॐ क्लीं अमृतानंदे मध्यमाभ्यां नमः।
ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः।
ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः।
ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरप्रजाभ्यां नमः।
॥ हृदयादिन्यासः ॥
ॐ सिद्धिलक्ष्मी हृदयाय नमः।
ॐ ह्रीं वैष्णवी शिरसे स्वाहा।
ॐ क्लीं अमृतानंदे शिखायै वौषट्।
ॐ श्रीं दैत्यमालिनी कवचाय हुम्।
ॐ तं तेजःप्रकाशिनी उत्सवद्वय वौषट्।
ॐ ह्रीं क्लीं श्रीं ब्राह्मणीं वैष्णवीं फट्।
॥ ध्यानम् ॥
ब्राह्मणि च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखम्।
त्रिनेत्रां च त्रिशूलां च पद्मचक्रगदाधराम॥1॥
पीताम्बरधरां देवीं नानालङ्कारभूषिताम्।
तेजःपुंजधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम्॥2॥
॥ अथ मूलपाठः ॥
ॐकारलक्ष्मीरूपेण विष्णुहृदयमव्ययम्।
विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी॥3॥
ॐ क्लीं अमृतानंदभद्रे सद्य आनंददायिनी।
ॐ श्रीं दैत्यभक्षरदं शक्तिमालिनी शत्रुमर्दिनी॥4॥
तेजःप्रकाशिनी देवी वरदा शुभकारिणी।
ब्राह्मी च वैष्णवी भद्र कालिका रक्तशाम्भवी॥5॥
आकारब्रह्मरूपेण ॐकारं विष्णुमव्ययम्।
सिद्धिलक्ष्मि परलक्ष्मि लक्ष्यलक्ष्मि नमोऽस्तुते॥6॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम्।
तन्मत्ये निक्रे सूक्ष्मरं ब्रह्मरूपव्यवस्थितम्॥7॥
ॐकारपरमानन्दं क्रियते सुखसम्पदा।
सर्वमङ्गलमाङ्गलये शिवे सर्वार्थसाधिके॥8॥
प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा।
तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी॥9॥
पंचमे विष्णुपत्नी च षष्ठे च वैष्णवी तथा।
सप्तमे च वररोहा अष्टमे वरदायिनी॥10॥
नवमे खड्गत्रिशूल दशमे देवदेवता।
एकादशे सिद्धिलक्ष्मीर्दवादशे ललितात्मिका॥11॥
एतत्सोत्रं पत्तस्त्वां स्तुवन्ति भुवि मानवाः।
सर्वोपद्रवमुक्तास्ते नात्र कार्य विचारणा॥12॥
एकमासं द्विमासं वा त्रिमासं च चतुर्थकम्।
पञ्चमासं च षण्मासं त्रिकालं यः पठेन्नरः॥13॥
ब्राह्मणाः क्लेशतो दुःखदरिद्र भयपीड़िताः।
जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशतः॥14॥
अलक्ष्मीर्लभते लक्ष्मीमपुत्रः पुत्रमुत्तमम्।
धन्यं यशस्यमायुष्यं वह्निचौरभ्येषु च॥15॥
शाकिनीभूतवेतालसर्वव्याधिनिपातके।
राजद्वारे महाघोरे सङ्ग्रामे रिपसुङ्कटे॥16॥
सभास्थाने श्मशाने च करागेहरिबन्धने।
अशेषभयसम्प्राप्तौ सिद्धिलक्ष्मीं जपेन्नरः॥17॥
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम्।
स्तुवन्ति ब्राह्मणा नित्यं दारिद्र्यं न च वर्धते॥18॥
या श्रीः पद्मवने चरणबशिखरे राजगृहे कुञ्जरे
श्वेते चाश्वुते वृषे च मित्रे यज्ञे च उपस्थिते।
शङ्खे देवकुले नरेन्द्रभवनी गंगातते गोकुले
सा सृष्टिस्तु सर्वदा मम गृहे भूयात्सदा निश्चला॥19॥
॥ इति श्रीब्रह्माण्डपुराणे ईश्वरविष्णुसंवादे
दारिद्र्यनाशनं सिद्धिलक्ष्मीस्तोत्रं सम्पूर्णम् ॥