Goddess Lakshmi depicted with multiple arms, symbols, and flowers, representing Dhanadalakshmi Stotram

धनदालक्ष्मी स्तोत्रम् | धनदालक्ष्मी स्तोत्रम्

॥ धनदालक्ष्मी स्तोत्रम् ॥

॥ धनदा उवाच ॥

देवी देवमुपागम्य नीलकण्ठं मम प्रियम्।
कृपया पार्वती प्राह शंकरं करुणाकरम्॥1॥

॥ देवयुवाच ॥
ब्रुहि वल्लभ साधूनां दरिद्राणां कुटुम्बिनाम्।
दरिद्र दलनोपायमञ्जसैव धनप्रदम्॥2॥

॥ शिव उवाच ॥
पूज्येन पार्वतीवाक्यमिदमह महेश्वरः।
जगदंबासि तव भूतानुकंपया॥3॥

ससीतं सानुजं रामं संज्ञेयं सहानुगम्।
प्रणम्य परमानन्दं वक्ष्येऽहं स्तोत्रमुत्तमम्॥4॥

धनदं श्रद्धानानां सद्यः सुगमकारकम्।
योगक्षेमकरं सत्यं सत्यमेव वाचो मम॥5॥

पत्तनः पथयन्तोऽपि ब्राह्मणैरस्तिकोत्तमैः।
धनलाभो भवेदाषु नाशमेति दरिद्रता॥6॥

भूभवांशभवं भूत्यै भक्तिकल्पलतां शुभम्।
प्रार्थयत्तं यथाकामं कामधेनुस्वरूपिणीम्॥7॥

धनदे धनदे देवी दानशीले दयाकरे।
त्वं प्रसीद महेशानि! यदर्थं प्रथमयाम्यहम्॥8॥

धराऽमरप्रिये पुण्ये धन्ये धनदपूजिते।
सुधनं धार्मिके देहि यजमानाय सत्वराम॥9॥

रामये रुद्रप्रिये रूपे रामरूपे रतिप्रिये।
शिक्षासखमनोमूर्ते प्रसीद प्रणते मयि॥10॥

अर्कत्-चरणमभोजे सिद्धि-सर्वार्थदायिके।
दिव्याम्बरधरे दिव्ये दिव्यमाल्यानुशोभिते॥11॥

सर्वगुणसम्पन्ने सर्वलक्षणलक्षिते।
शरचन्द्रमुखे नीले नील नीरज लोचने॥12॥

चांचरीक चामु चारु श्रीहर कुटीलालके।
मत्ते भगवती मातः कलकंथरवामृते॥13॥

हासाऽवलोकनैर्दिवैर्भक्तचिन्तापहारिके।
रूप लावण्यं तारुण्यं करौण्यं गुणभाजने॥14॥

क्वांटकङकंमञ्जीरे लस्लिलाकराम्बुजे।
रुद्रप्रकाशिते तत्त्वे धर्माधारे धरालये॥15॥

प्रयच्छ यजमानाय धनं धर्मेक्षणसाधनम्।
मातस्त्वं मेऽविलम्बेन दिशस्व जगदम्बिके॥16॥

कृपया करुरागे प्रार्थितं कुरु मे शुभे।
वसुधे वसुधारूपे वसु वासव वन्दिते॥17॥

धनदे यजमानाय वरदे वरदा भव।
ब्रह्मण्यैर्ब्राह्मणैः पूज्ये पार्वतीशिवशकरे॥18॥

स्तोत्रं दारिद्रताव्याधिशमनं सुधनप्रदम्।
श्रीकेरे शंकरे श्रीदे प्रसीद मयिकीङके॥19॥

पार्वतीशप्रसादेन सुरेश किङकरेरिटम्।
श्रद्धया ये पुष्ययन्ति पाठयिष्न्ति भक्तिः॥20॥

सहस्रम्युतं लक्षं धनलाभो भवेद् ध्रुवम्
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च।
भवन्तु त्वत्प्रसादान्मे धन-धान्यदिसम्पदाः॥21॥

॥ इति श्री धनलक्ष्मी स्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं