वीरविंशतिकाख्यं श्री हनुमत्स्तोत्रम् | Viravinshatikakhyam Shri Hanumat Stotram

॥ वीरविंशतिकाख्यं श्री हनुमत्स्तोत्रम् ॥

लाङ्गूलमृष्टवियदम्बुधिमध्यमार्ग
मुत्प्लुत्ययान्तममरेन्द्रमुदो निदानम्।
आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं
द्राङ्मैथिलीनयननन्दनमद्य वन्दे॥1॥

मध्येनिशाचरमहाभयदुर्विषह्यं
घोराद्भुतव्रतमियं यददश्चचार।
पत्ये तदस्य बहुधापरिणामदूतं
सीतापुरस्कृततनुं हनुमन्तमीडे॥2॥

यः पादपङ्कजयुगं रघुनाथपत्न्या
नैराश्यरूषितविरक्तमपि स्वरागैः।
प्रागेव रागि विदधे बहु वन्दमानो
वन्देञ्जनाजनुषमेष विशेषतुष्ट्यै॥3॥

ताञ्जानकीविरहवेदनहेतुभूतान्
द्रागाकलय्य सदशोकवनीयवृक्षान्।
लङ्कालकानिव घनानुदपाटयद्यस्तं
हेमसुन्दरकपिं प्रणमामि पुष्ट्यै॥4॥

घोषप्रतिध्वनितशैलगुहासहस्र
सम्भान्तनादितवलन्मृगनाथयूथम्।
अक्षक्षयक्षणविलक्षितराक्षसेन्द्रमिन्द्रं
कपीन्द्रपृतनावलयस्य वन्दे॥5॥

हेलाविलङ्घितमहार्णवमप्यमन्दं
धूर्णद्गदाविहतिविक्षतराक्षसेषु।
स्वम्मोदवारिधिमपारमिवेक्षमाणं
वन्देऽहमक्षयकुमारकमारकेशम्॥6॥

जम्भारिजित्पसभलम्भितपाशबन्धं
ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम्।
रौद्रावतारमपि रावणदीर्घदृष्टि
सङ्कोचकारणमुदारहरिं भजामि॥7॥

दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्चत्कोटीरचुम्बि
निजबिम्बमुदीक्ष्य हृष्टम्।
पश्यन्तमात्मभुजयन्त्रणपिष्यमाण
तत्कायशोणितनिपातमपेक्षि वक्षः॥8॥

अक्षप्रभृत्यमरविक्रमवीरनाशक्रोधादिव
द्रुतमुदञ्चितचन्द्रहासाम्।
निद्रापिताभ्रघनगर्जनघोरघोषैः
संस्तम्भयन्तमभिनौमि दशास्यमूर्तिम्॥9॥

आशंस्यमानविजयं रघुनाथधाम
शंसन्तमात्मकृतभूरिपराक्रमेण।
दौत्ये समागमसमन्वयमादिशन्तं
वन्दे हरेः क्षितिभृतः पृतनाप्रधानम्॥10॥

यस्यौचितीं समुपदिष्टवतोऽधिपुच्छ
दम्भान्धितां धियमपेक्ष्य विवर्धमानः।
नक्तञ्चराधिपतिरोषहिरण्यरेता
लङ्कां दिधक्षुरपतत्तमहं वृणोमि॥11॥

क्रन्दन्निशाचरकुलां ज्वलनावलीढैः
साक्षाद्गृहैरिवबहिः परिदेवमानाम्।
स्तब्धस्वपुच्छतटलग्नकृपीटयोनि
दन्दह्यमाननगरीं परिगाहमानाम्॥12॥

मूर्तैर्गृहासुभिरिव द्युपुरं व्रजद्भिर्व्योम्नि
क्षणं परिगतं पतगैर्ज्वलद्भिः।
पीताम्बरं दधतमुच्र्छितदीप्ति पुच्छं
सेनां वहद्विहगराजमिवाहमीडे॥13॥

स्तम्भीभवत्स्वगुरुबालधिलग्नवह्नि
ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै।
वन्दे यथोपरि पुरो दिवि दर्शयन्तमद्यैव
रामविजयाजिकवैजयन्तीम्॥14॥

रक्षश्चयैकचितकक्षकपूश्चितौ यः
सीताशुचो निजविलोकनतो मृतायाः।
दाहं व्यधादिव तदन्त्यविधेयभूतं
लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु॥15॥

आशुद्धये रघुपतिप्रणयैकसाक्ष्ये
वैदेहराजदुहितुः सरिदीश्वराय।
न्यासं ददानमिव पावकमापतन्तमब्धौ
प्रभञ्जनतनूजनुषं भजामि॥16॥

रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण
मक्षक्षयक्षणविधानमितात्मदाक्ष्यम्।
भास्वत्प्रभातरविभानुभरावभासं
लङ्काभयंकरममुं भगवन्तमीडे॥17॥

तीर्त्वोदधि जनकजार्पितमाप्य चूडारत्नं
रिपोरपि पुरं परमस्य दग्ध्वा।
श्रीरामहर्षगलदश्वभिषिच्यमानं
तं ब्रह्मचारिवरवानरमाश्रयेऽहम्॥18॥

यः प्राणवायुजनितो गिरिशस्य शान्तः
शिष्योऽपि गौतमगुरुर्मुनिशङ्करात्मा।
हृद्यो हरस्य हरिवद्धरितां गतोऽपि
धीधैर्यशास्त्रविभवेऽतुलमाश्रये तम्॥19॥

स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या
यः पार्वतीश्वरमतोषयदाशुतोषम्।
तस्मादवाप च वरानपरानवाप्यान्
तं वानरं परमवैष्णवमीशमीडे॥20॥

उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता।
हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा॥21॥

॥ इति श्री कविपत्युपनामकोमापति शर्मद्विवेदिविरचितं
वीरविंशतिकाख्यं श्रीहनुमत्स्तोत्रं सम्पूर्णम् ॥
Back to blog
  • Vyapar Kavach 100% natural and government lab certified for purchase. Buy Kavach online for protection and blessings.

    Kavach

    Discover the spiritual essence of the Kavach collection at RudraGram, where tradition... 

  • Vibrant spiritual yantras online showcasing a geometric design energized by Pandit Ji

    Yantras

    Discover our exclusive collection of spiritual yantras online at RudraGram, where authenticity... 

  • Vibrant collection of certified gemstones online featuring various colors and types for spiritual practices

    Gemstones

    Discover the vibrant world of certified gemstones online with RudraGram. Our gemstone... 

  • Exclusive collection of natural Nepali Rudraksha beads, showcasing their unique designs and sacred significance

    Rudraksha Beads

    Discover the natural Nepali Rudraksha beads collection at RudraGram, where spiritual growth... 

  • Japa Mala collection featuring 100% natural, certified malas for meditation to buy japa mala online

    Japa Mala

    Discover the finest selection of spiritual tools at RudraGram. Our 'Buy Japa... 

1 of 5