श्री हरि शरणाष्टकम् | Shri Hari Sharanashtakam

॥ श्री हरि शरणाष्टकम् ॥

ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमपरे तु दिवाकरं वै।
रूपैस्तु तैरपि विभासि यतस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥

नो सोदरो न जनको जननी न जायानैवात्मजो न च कुलं विपुलं बलं वा।
संदृष्यते न किल कोऽपि सहायको मेतस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥

नोपासिता मदमपास्य मया महान्तस्तीर्थानिचास्तिकधिया न हि सेवितानि।
देवार्चनं च विधिवन्न कृतं कदापितस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥

दुर्वासना मम सदा परिकर्षयन्तिचित्तं शरीरमपि रोगगणा दहन्ति।
सञ्जीवनं च परहस्तगतं सदैवतस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥

पूर्वं कृतानि दुरितानि मया तु यानिस्मृत्वाखिलानि ह्रदयं परिकम्पते मे।
ख्याता च ते पतितपावनता तु यस्मात्तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥

दुःखं जराजननजं विविधाश्च रोगाःकाकश्वसूकरजनिर्निरय च पातः।
त्वद्विस्मॄतेः फलमिदं विततं हि लोकेतस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥

नीचोऽपि पापवलितोऽपि विनिन्दितोऽपिब्रूयात्तवाहमिति यस्तु किलैकवारम्।
तं यच्छसीश निजलोकमिति व्रतं तेतस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥

वेदेषु धर्मवचनेषु तथागमेषुरामायणेऽपि च पुराणकदम्बके वा।
सर्वत्र सर्वविधिना गदितस्त्वमेवतस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम् ॥
Back to blog
  • Vyapar Kavach 100% natural and government lab certified for purchase. Buy Kavach online for protection and blessings.

    Kavach

    Discover the spiritual essence of the Kavach collection at RudraGram, where tradition... 

  • Vibrant spiritual yantras online showcasing a geometric design energized by Pandit Ji

    Yantras

    Discover our exclusive collection of spiritual yantras online at RudraGram, where authenticity... 

  • Vibrant collection of certified gemstones online featuring various colors and types for spiritual practices

    Gemstones

    Discover the vibrant world of certified gemstones online with RudraGram. Our gemstone... 

  • Exclusive collection of natural Nepali Rudraksha beads, showcasing their unique designs and sacred significance

    Rudraksha Beads

    Discover the natural Nepali Rudraksha beads collection at RudraGram, where spiritual growth... 

  • Japa Mala collection featuring 100% natural, certified malas for meditation to buy japa mala online

    Japa Mala

    Discover the finest selection of spiritual tools at RudraGram. Our 'Buy Japa... 

1 of 5