॥ अथ श्रीशीतलाष्टकम् ॥
॥ विनियोग ॥
अस्य श्रीशीतलस्तोत्रस्यमहादेव ऋषिः।
अनुष्टुप छन्दः शीतल देवता।
लक्ष्मीर्बिजम्।भवानी शक्तिः।
सर्वविस्फोटकनिवृत्तिथेपे विनियोगः॥
ईश्वर उवाच।
वन्देऽहं शीतलां देवींरसभस्थां दिगम्बराम्।
मार्जनीकलशोपेतांशुर्पालङकृतमस्तकम्॥1॥
वन्देऽहं शीतलां देवींसर्वरोगभ्यापहाम्।
यमसाद्य निवर्तेत्विस्फोटकभयं महत्॥2॥
शीतले शीतले चेतियो ब्रुयद्दहपीदितः।
एकलभयं घोरंक्षिप्रं तस्य प्रणश्यति॥3॥
यस्त्वामुदकमध्ये तुध्यात्वा संपूजयेन्नरः।
एकलभयं घोरंगृहे तस्य न जायते॥4॥
शीतले ज्वरदग्धास्यपूतिगन्धयुतस्य च।
प्रनष्टचक्षुषःपुंसस्त्वमाहुर्जीवनौषधम्॥5॥
शीतलते तनुजान् रोगान्नृणां हरसि दुस्त्यजान्।
कामुकविद्यार्नानान्त्वमेकाऽमृतवर्षिणी॥6॥
गलगंडग्रह रोगा येचान्ये दारुणा नृणाम्।
त्वदनुध्यानमात्रेन्शीतले यान्ति सङ्क्षयम्॥7॥
न मंत्रो नौषधं तस्यपापरोगस्य विद्यते।
त्वमेकं शीतले धातृन्नन्यां पश्यामि देवताम्॥8॥
॥ फलश्रुति॥
मृणालन्तुसदृशिन्नाभिहृन्मध्यसंस्थिताम्।
यस्त्वां संचिन्तयेद्देवितस्य मृत्युर्न जायते॥9॥
अष्टकं शीतलादेवयो नरः प्राप्तत्सदा।
एकलभयं घोरंगृहे तस्य न जायते॥10॥
श्रोतव्यं पतितव्यं चाश्रद्धाभक्तिसमन्वितैः।
उपसर्गविनाशायपरं स्वस्त्ययनं महत्॥11॥
शीतले त्वं जगन्माताशीतले त्वं जगत्पिता।
शीतले त्वं जगधात्रीशीतलयै नमो नमः॥12॥
रासभो गर्दभश्चैवखरो वैशाखन्नन्दनः।
शीतलवाहनश्चैवदूर्वाकन्दनिकृन्तनः॥13॥
एतानि खरनामानिशीतलाग्रे तु यः पठेत्।
तस्य गेहे शिशुनां चशीतलरुङ् न जायते॥14॥
शीतलाष्टकमेवेदं नादेयं यस्यकस्यचित्।
दातव्यं च सदा तस्माश्रद्धाभक्तियुताय वै॥15॥
॥ इति श्रीस्कन्दपुराणे शीतलाष्टकं सम्पूर्णम् ॥