॥ अथ श्री परशुरामाष्टकम्
शुभ्रदेहं सदा क्रोधक्तेक्षणम्
भक्तपालं कृपालुं कृपावारिधिम्
विप्रवंशवतंसं धनुर्धारिणम्
भव्ययज्ञोपवीतं कलाकारम्
यस्य हस्ते कुठारं महातीक्ष्णम्
रेणुकानन्दनं जामदग्न्यं भजे॥1॥
सौम्यरूपं मनोज्ञं सुरैरवंदितम्
जन्मतः ब्रह्मचारिवृते सुस्थिरम्
पूर्णतेजस्विनं योगयोगीश्वरम्
पापसंतापरोगादिसंहारिणम्
दिव्यभव्यं शत्रुसंहारकम्
रेणुकानन्दनं जामदग्न्यं भजे॥2॥
ऋद्धिसिद्धिप्रदाता विधाता भुवो
ज्ञानविज्ञान प्रदाता सुखम्
विश्वधाता सूत्रताऽखिलं विस्तृतम्
तत्त्वज्ञाता सदा पातु माम् निर्बलम्
पूज्यमानं मलथाभासं विभुम्
रेणुकानन्दनं जामदग्न्यं भजे॥3॥
दुःख दारिद्र्यदावाग्ने तोयदम्
बुद्धिजाद्यं विनाशाय चैतन्यदम्
वित्तमैश्वर्यदानाय वित्तेश्वरम्
सर्वशक्तिसत्ताय लक्ष्मीपतिम्
मंगलं ज्ञानगम्यं जगत्पालकम्
रेणुकानन्दनं जामदग्न्यं भजे॥4॥
यश्च हंता सहस्रार्जुनं हैहयम्
त्रिगुणं सप्तकृत्वा महाक्रोधनैः
दुष्टशून्या धरा येन सत्यं कृता
दिव्यदेहं दयादानदेवं भजे
घोररूपं महतेजसं वीरकम्
रेणुकानन्दनं जामदग्न्यं भजे॥5॥
मारयित्वा महादुष्ट भूपालकं
येन शोणेन कुण्डेकृतं तर्पणम्
येन शोणिकृता शोनाम्नि नदी
स्वस्य देशस्य मूढ़ हतः द्रोहिणः
स्वस्य राष्ट्रस्य शुद्धिकृता शोभना
रेणुकानन्दनं जामदग्न्यं भजे॥6॥
दीनत्राता प्रभो पाहि माम् पालक!
रक्ष संसाररक्षाविधौ दक्षक!
देहि संमोही भवानी पावनी
स्वीय पादारविन्दस्य सेवा प्रा:
पूर्णमारुण्यरूपं परं मंजुलम्
रेणुकानन्दनं जामदग्न्यं भजे॥7॥
ये जयोधोषकाः पादसम्पूजकाः
सत्वरं वाञ्चितं ते लभन्ते नाराः
देहगेहादिसौख्यं परं प्राप्य वै
दिव्यलोकं ततन्ते प्रियं यान्ति ते
भक्तसंरक्षकं विश्वसम्पालकम्
रेणुकानन्दनं जामदग्न्यं भजे॥8॥
॥ इति श्रीपरशुरामाष्टकं सम्पूर्णम् ॥