Vibrant illustration of Shri Lakshmi Narayana Ashtakam with tropical scenery in the background

श्री लक्ष्मीनारायण अष्टकम् | श्री लक्ष्मी नारायण अष्टकम

॥ श्री लक्ष्मीनारायणाष्टकम् ॥

अर्तानां दुःखशमने मित्रं प्रभुमव्ययम्।
अशेषजगदाधारं लक्ष्मीनारायणं भजे॥1॥

अपारकरुणामबोधिं आपदबंधवमच्युतम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥2॥

भक्तानां वत्सलं भक्तिगम्यं सर्वगुणकारम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥3॥

सुहृदं सर्वभूतानां सर्वलक्षणसंयुतम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥4॥

चिदचित्सर्वजंतुनां आधारं वरदानं परम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥5॥

शंखचक्रधरं देवं लोकनाथं दयानिधिम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥6॥

पीताम्बरधरं विष्णुं विल्सत्सूत्रशोभितम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥7॥

हस्तेन दक्षिणेन यजं अभयप्रदमाक्षरम्।
अशेषदुःखशान्त्यर्थं लक्ष्मीनारायणं भजे॥8॥

यः पठेत् प्रातरुत्थाय लक्ष्मीनारायणाष्टकम्।
विमुक्तसर्वपापेभ्यः विष्णुलोकं स गच्छति॥

॥ इति श्रीलक्ष्मीनारायणाष्टकं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं