॥ श्री कमलापत्यष्टकम् ॥
भुजगतल्पगतं घनसुन्दरगुरूद्वहनमम्बुजलोचनम्।
नलिनचक्रगदाकर्मव्ययम्भजत् रे मनुजाः कमलापतिम्॥1॥
एलिकुलासितकोमलकुन्तलंविमलपीतदुकूलमनोहरम्।
जलधिजाङ्कितवामक्लेवरंभजत् रे मनुजाः कमलापतिम्॥2॥
किमु जपैश्च तपोभिरुताध्वरायर्पीकिमुत्तमतीर्थनिशेवनैः।
किमुत् शास्त्रकदंबविलोकनैर्भजत्रे मनुजाः कमलापतिम्॥3॥
मनुजदेहमिमं भुवि दुर्लभंसमधिगम्य सुरैरपि वाञ्चितम्।
विषयलम्पत्तमपहाय वैभजत् रे मनुजाः कमलापतिम्॥4॥
न वनिता न सुतो न सहोदरो नहि पिता जननी न च बंधवः।
व्रजति सकामनेन जेनेन वैभजत् रे मनुजाः कमलापतिम्॥5॥
सकलमेव चलं सचराचरंजगदिदं सुतरं धनयौवनम्।
समवलोक्य विवेकदर्शा द्रुतंभजत् रे मनुजाः कमलापतिम्॥6॥
विविधरोग्युतं क्षणभंगुरंपर्वशं नवमार्गमालाकुलम्।
परिणिरक्ष्य शरीरमिदं स्वकंभजत् रे मनुजाः कमलापतिम्॥7॥
मुनिवरैरिनिशं हृदि भावैतंशिवविरिञ्चिममहेन्द्रनुतं सदा।
मरणजन्मजरभयमोचनभजत् रे मनुजाः कमलापतिम्॥8॥
हृपदाष्टकमेतदनुत्तमंपरमहंसजनेन समिरितम्।
पति यस्तु सम्मिलितचेतसव्रजति विष्णुपदं स नरो ध्रुवम्॥9॥
॥ इति श्रीमत्परमहंसस्वामीब्रह्मानन्दविरचितं श्रीकमलापत्यष्टकं सम्पूर्णम् ॥