॥ श्री दीनबन्ध्वष्टकम् ॥
यस्मादिदं जगदुदेति चतुर्मुखाद्यन्यास्मिन्नवस्थितमशेषेषमूले।
यत्रोपायति विलयं च सर्वमन्तेदृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥1॥
चक्रं सहस्रकरचारु करविंदेगुरवि गदा दरवरश्च विभाति यस्य।
पक्षीन्द्रपृष्ठपरिरोपितपादपद्मो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥2॥
येनोद्धृता वसुमति सलिले निमग्ना नग्नाच पाण्डवधूः बाला दुकोलैः।
संमोचितो जलचरस्य मुखादगजेन्द्रो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥3॥
यस्यार्द्रदृष्टिवशस्तु सुराः समृद्धिंकोपेक्षणेन दनुजा विलीनं व्रजन्ति।
भीताश्चरन्ति च यतोऽर्कयमानिलाद्या।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥4॥
गायन्ति समकुशला यमजं मखेषुध्यायन्ति धीर्मतयो यतयो विविक्ते।
पश्यन्ति योगिपुरुषाः पुरुषं शरीरे।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥5॥
आकाररूपगुणयोगविवर्जितोऽपि मदभक्तानुकम्पनिमित्तगृहीतमूर्तिः।
यः सर्वगोऽपि कृतशेषशरीरशयो।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥6॥
यस्याङ्घृपङ्कज्मनिद्रमुनीन्द्रवृन्दैरराध्यते भवदवानलदहशन्त्यै।
सर्वपराधमविचिन्त्य ममाखिलात्मा।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥7॥
यन्नामकीर्तनपरः श्वपचोऽपि नूननहित्वाखिलं कलिमलं भुवनं पुनाति।
दग्ध्वा ममाघमखिलं करुणेक्षणेन।दृग्गोचरो भवतु मेऽद्य स दीनबन्धुः॥8॥
दीनबन्ध्वष्टकं पुण्यंब्रह्मानंदेन भाषितम्।
यः पठेत् प्रयतो नित्यन्तस्य विष्णुः प्रसीदति॥9॥
॥ इति श्रीमत्परमहंसस्वामीब्रह्मानन्दविरचितं श्रीदीनबन्ध्वष्टकं सम्पूर्णम् ॥