॥ महालक्ष्म्यष्टकम् ॥
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते।
शङ्क्षचक्रगदाहस्ते महालक्ष्मी नमोऽस्तुते॥1॥
नमस्ते गरुडारूधे कोलासुरभयङ्करि।
सर्वपापहरे देवी महालक्ष्मी नमोऽस्तुते॥2॥
सर्वज्ञे सर्ववर्दे सर्वदुष्टभयङ्करि।
सर्वदुःखरे देवी महालक्ष्मी नमोऽस्तुते॥3॥
सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्तिप्रदायिनी।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोऽस्तुते॥4॥
आद्यन्तराते देवि आद्यशक्तिमहेश्वरि।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तुते॥5॥
स्थूलसूक्ष्महारौद्रे महाशक्तिमहोदरे।
महापापहरे देवी महालक्ष्मी नमोऽस्तुते॥6॥
पद्मासनस्थिते देवी परमब्रह्मस्वरूपनि।
परमेशि जगन्मातर्मालक्ष्मि नमोऽस्तुते॥7॥
श्वेताम्बरधरे देवी नानालङकारभूषिते।
जगतस्थिते जगन्मातर्मालक्ष्मि नमोऽस्तुते॥8॥
महालक्ष्म्यष्टकं स्तोत्रं यः पत्थेद्भक्तिमन्नरः।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा॥9॥
एककाले पथेन्नित्यं महापापविनाशनम्।
द्विकालं यः पथेन्नित्यं धनधान्यसमन्वितः॥10॥
त्रिकालं यः पथेन्नित्यं महाशत्रुविनाशनम्।
महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा॥11॥
॥ इति इन्द्रकृतं महालक्ष्म्यष्टकं सम्पूर्णम् ॥