Artistic depiction of Shri Tulsi Stotram with deities in vibrant attire and a tulsi plant in the background

श्री तुलसी स्तोत्रम || श्री तुलसी स्तोत्रम्

॥ तुलसी माता स्तोत्रम् ॥

जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः॥1॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे।
नमो मोक्षप्रदे देवी नमः सम्पतप्रदायिके॥2॥

तुलसी पातु मां नित्यं सर्वपद्भ्योऽपि सर्वदा।
कीर्तितापि स्मृता वापि पवित्रयति मानवम्॥3॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम्।
यं दृष्ट्वा पापिनो मर्त्य मुच्यन्ते सर्वकिल्बिषात्॥4॥

तुलस्य रक्षितं सर्वं जगेतच्चराचरम्।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरायः॥5॥

नमस्तुलस्यतितरं यस्यै बद्ध्वांजलिं कलौ।
कल्याण्ति सुखं सर्वं स्त्रीयो वैश्यस्तथाऽपरे॥6॥

तुलस्या नापरं किञ्चिद दैवतं जगतितले।
यथा पवित्रतो लोको विष्णुसङ्गेन वैष्णवः॥7॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ।
आरोपयति सर्वाणि श्रेयांसि वरामस्तके॥8॥

तुलस्यां सकला देवा वसन्ति सततं यतः।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन्॥9॥

नमस्तुलसि सर्वज्ञे पुरूषोत्तमवल्लभे।
पाहि माँ सर्वपापेभ्यः सर्वसम्पत्प्रदायिके॥10॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता।
विष्णुमर्च्यता नित्यं शोभनैस्तुसीदलैः॥11॥

तुलसीश्रीमहालक्ष्मीर्विद्याविद्या यशस्विनी।
धर्म्या धर्मानाना देवी देवीदेवमनः प्रिया॥12॥

लक्ष्मीप्रियासखी देवी द्यौरभूमिराचला चलीं।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः॥13॥

लभते सूत्रं भक्तिमन्ते विष्णुपदं लभेत्।
तुलसी भूर्महालक्ष्मतिः पद्मिनी श्रीहरिप्रिया॥14॥

तुलसी श्रीसखी शुभे पापहारिणि पुण्यदे।
नमस्ते नारदनुते नारायणमनः प्रिये॥15॥

॥ इति श्रीपुण्डरीककृतं तुलसीस्तोत्रं सम्पूर्णम् ॥
ब्लॉग पर वापस जाएं