॥ शिव मृत्युञ्जय स्तोत्रम् ॥
रत्नसानुशरासनं रजतादृशृङ्गननिकेतनं
शञ्जिनीकृतपन्नगेश्वरमच्युतनलसायकम्।
क्षिप्रदग्पुरत्रयं त्रिदशलयैरभिवंदितं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥1॥
पञ्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं
भालालोचनजातपावकदग्धमन्मथविग्रहम्।
भस्मदिघकलेवरं भवनाशिं भवमव्ययं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥2॥
मत्त्वारणमुख्यचर्मकृतकटीयमनोहरं
पाकजासंपद्मलोचनपूजिताङ्घृसरोरुहम्।
देवसिद्धतरङ्गिनी कारसिक्तशीतजताधरं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥3॥
कुंडलीकृतकुंडलीश्वरकुंडलं वृषभवाहनं
नारदादिमुनीश्वरस्तुवैभवं भुवनम्।
अन्धकान्तकमाश्रितामरपादपं शमनन्तकं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥4॥
यक्षराजसखं भक्ष्खिहरं भुजङ्गविभूषणं
शैलराजसुतापरिष्कृतचारुवामकलेवरम्।
क्ष्वेदनीलगलं पार्श्वधारिणं मृगधारिणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥5॥
भेषजं भरोगिनामखिलपादमपहारिनं
दाक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम्।
भुक्तिमुक्तिफलप्रदं निखिलाघसघनिबर्हणं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥6॥
भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं
सर्वभूतपतिं प्राप्तं परमप्रमयमनुपमम्।
भूमिवारिनभोहुताशनसोमपालितस्वाकृतिं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥7॥
विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं
संहारन्तमथ प्रपंचमशेषलोकनिवासिनम्।
क्रीडयन्तमहर्निशं गणनाथयुथसमाव्रतं
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः॥8॥
रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥9॥
कालकंठं कलामूर्तिं कालाग्निं कालानाशनम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥10॥
नीलकण्ठं विरूपाक्षं निर्मलं निरूपद्रवम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥11॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥12॥
देवदेवं जगन्नाथं देवेशमृषभध्वजम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥13॥
अनन्तमव्ययं शान्तमक्षमालाधरं हरम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥14॥
आनन्दं परमं नित्यं कैवल्यपादकरणम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥15॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम्।
नमामि शिरसा देवं किं नो मृत्युः करिष्यति॥16॥
॥ इति श्रीपद्मपुराणान्तर्गत उत्तरखण्डे श्रीमृत्युञ्जयस्तोत्रं संपूर्णम्। ॥