॥ ઈશ્વર સ્તુતિ स्तोत्रम् ॥
त्वमेकः शुद्धोऽसि त्वयि निगमबाह्य मलमयं
प्रपञ्चं पश्यन्ति भ्रमपरवशाः पापनिरताः।
बहिस्तेभ्यः कृत्वा स्वपदरमान मानय विभो
गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ॥1॥
न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि च मां
त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे।
अतो मामुद्धुर्तुं घटय मयि दृष्टि सुविमलां
न रिक्तां मे याच्चज्ञां स्वजनरत कर्तुं भव हरे ॥2॥
कदाहं भो स्वामिन्नियतमनसा त्वां हृदि
भजनभद्रे संसारे ह्यन्वरतदुःखेऽतिविरसः ।
लभेयं तां शान्तिं परममुनिभिर्या ह्यधिगता
दयां कृत्वा मे त्वं वितर परशान्तिं भवहर ॥3॥
વિધાતા ચેद्विश्वं सृजति सृजतां मे शुभकृतिं
વિધુश्चेत्पाता मावतु जनिमृतेर्दुःखजलधेः।
हरः संहर्ता संहर्तु मम शोकं सजनकं
यथाहं मुक्तः स्यां किमपि तु तथा ते विधाताम् ॥4॥
अहं ब्रह्मानन्दस्त्वमपि च तदाख्यः सुविदित
स्ततोऽहं भिन्नो नो कथमपि भवत्तः श्रुतिदृशा।
तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं
સ્વમાયાં સંવાર્ય પ્રભવ મમ ભેદં નિરસિતુમ્ ॥૫॥
कदाहं हे स्वामिञ्जनिमृतिमयं दुःखनिबिडं
भवं हित्वा सत्येऽनवरतसुखे स्वात्मवपुषि ।
રામે તસ્મિન્નિત્યં નિખિલમુનયો બ્રહ્મરસિકા
रमन्ते इस्मिंस्ते कृत्सकलकृत्यजुवरा ॥6॥
पठन्त्यके शास्त्रांपर निगममपरे तत्तया
यजन्त्यान्ये त्वां वै ददति च पदार्थांस्तव हितान्।
अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाद्यथा
ते प्रीतिः स्याद्धितकर तथा त्वं कुरु विभो ॥7॥
अहं ज्योतिर्नित्यो गगनमिव तृप्तः सुखमयः
श्रुतौ सिद्धोऽद्वैतः कथमपि न भिन्नोऽस्मि विधुतः।
इति ज्ञाने तत्त्वे भवति च परः संसृतिला
दतस्त तत्वज्ञानं मयि सुघटयेस्तं हि कृपया ॥8॥
अनादौ संसारे जनमृत्मये दुःखितमना
मुमुक्षुः सनकश्चिद्भजति हि गुरुं ज्ञानमम्।
ततो ज्ञात्वा यं वै तुदति न रिक्लेशनविहै
भजेऽहं तं देवं भवति च परो इस्य भजनात् ॥9॥
विवेको वैराग्यो न च शमदमाद्याः षडपरे
मुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम्।
अतः विश्वाब्धेस्तरणसरणीं मामुपदिशन्
સ્વबुद्धिं श्रौतिं मे वितर भगवंस्त्वं कृपया हि ॥१०॥
कदाहं भो स्वामिन्निगममतिवेद्यं शिवमयं
चिदानन्दं नित्यं श्रुतिहृतपरिच्छेदनिवहम्।
त्वमर्थाभिन्नं त्वम्भिरम इहात्मन्यविरतं
મનીષામેવં મે સફળય વદાન્ય સ્વક્રિપયા ॥૧૧॥
यदर्थं सर्वं वै प्रियमसुधानादि प्रभवति
स्वयं न्यार्थो हि प्रिय इति च वेदे प्रविदितम्।
स आत्मा सर्वेशां जनमृतिमतां वेदगदित
स्ततोऽहं तं वेद्यं निरंतरमं यामि शरणम् ॥12॥
माया त्यक्तं सर्वं कथमपि भवेत्स्वात्मानि मतिस्त्वदीया
માયા मां प्रति तु विपरीतं कृतवती।
ततोऽहं किं कुर्यां न हि मम मतिः क्वापि चरति
दयां कृत्वा नाथ स्वपदशरण देहि शिवदम् ॥१३॥
नगा दैत्याः कीशा भवजलधिपारं हि गमितास्त्वया
चान्ये स्वामिंकिमिति समयेऽस्मिञ्च्छयितवान्।
न हेलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो
न हि त्वाहं हित्व कमपि शरण चान्यमगमम् ॥14॥
અનન્ताद्या विज्ञा न गुणजलधेस्तेऽन्तमगमनतः
न पारं यायात्तव गुणगणानां कथमयम्।
ગુણવદ્ધિ ત્વં જનમૃતિહરં याति परमां
गतिं योगिप्राप्यामिति मनसि बुद्ध्वाहमनवम् ॥15॥
॥ इति श्रीमन्मौक्तिकरामोदासीनशिष्यब्रह्मानन्दविरचितं
ઈશ્વરસ્તુતિસાર स्तोत्रं सर्वम्