Rin Mochan Mangal Stotram image depicting a deity riding a ram against a backdrop of Mars

ऋणमोचन मंगल स्तोत्रम | Rin Mochan Mangal Stotram

॥ ऋणमोचन मङ्गल स्तोत्र ॥

मङ्गलो भूमिपुत्रश्चऋणहर्ता धनप्रदः।
स्थिरासनो महाकायःसर्वकामविरोधकः॥1॥

लोहितो लोहिताक्षश्चसामगानां कृपाकरः।
धरात्मजः कुजो भौमोभूतिदो भूमिनन्दनः॥2॥

अङ्गारको यमश्चैवसर्वरोगापहारकः।
वृष्टेः कर्ताऽपहर्ता चसर्वकामफलप्रदः॥3॥

एतानि कुजनामानिनित्यं यः श्रद्धया पठेत्।
ऋणं न जायते तस्यधनं शीघ्रमवाप्नुयात्॥4॥

धरणीगर्भसम्भूतंविद्युत्कान्तिसमप्रभम्।
कुमारं शक्तिहस्तं चमङ्गलं प्रणमाम्यहम्॥5॥

स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः।
न तेषां भौमजा पीडास्वल्पापि भवति क्वचित्॥6॥

अङ्गारक महाभागभगवन् भक्तवत्सल।
त्वां नमामि ममाशेषमृणमाशु विनाशयः॥7॥

ऋणरोगादिदारिद्रयंये चान्ये चापमृत्यवः।
भयक्लेशमनस्तापानश्यन्तु मम सर्वदा॥8॥

अतिवक्रदुराराभोगमुक्तजितात्मनः।
तुष्टो ददासि साम्राज्यंरुष्टो हरसि तत्क्षणात्॥9॥

विरञ्चि शक्रविष्णूनांमनुष्याणां तु का कथा।
तेन त्वं सर्वसत्वेनग्रहराजो महाबलः॥10॥

पुत्रान्देहि धनं देहित्वामस्मि शरणं गतः।
ऋणदारिद्रयदुःखेनशत्रुणां च भयात्ततः॥11॥

एभिर्द्वादशभिः श्लोकैर्यःस्तौति च धरासुतम्।
महतीं श्रियमाप्नोतिह्यपरो धनदो युवा॥12॥

॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं
ऋणमोचन मङ्गल स्तोत्रम् सम्पूर्णम् ॥
ಬ್ಲಾಗ್‌ಗೆ ಹಿಂತಿರುಗಿ